Mahabharata

Sabha Parva, Adhyaya 71

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 71, Verse 1

कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः

भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ

Mahabharata

Sabha Parva, Adhyaya 71, Verse 2

धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी

श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम्

Mahabharata

Sabha Parva, Adhyaya 71, Verse 3

वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः

बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 71, Verse 4

सिकता वपन्सव्यसाची राजानमनुगच्छति

माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति

Mahabharata

Sabha Parva, Adhyaya 71, Verse 5

पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः

दर्शनीयतमो लोके राजानमनुगच्छति

Mahabharata

Sabha Parva, Adhyaya 71, Verse 6

कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना

दर्शनीया प्ररुदती राजानमनुगच्छति

Mahabharata

Sabha Parva, Adhyaya 71, Verse 7

धौम्यो याम्यानि सामानि रौद्राणि च विशां पते

गायन्गच्छति मार्गेषु कुशानादाय पाणिना

Mahabharata

Sabha Parva, Adhyaya 71, Verse 8

विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः

तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते

Mahabharata

Sabha Parva, Adhyaya 71, Verse 9

निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च

न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः

Mahabharata

Sabha Parva, Adhyaya 71, Verse 10

योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत

निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने

Mahabharata

Sabha Parva, Adhyaya 71, Verse 11

नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा

स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 71, Verse 12

यथा च भीमो व्रजति तन्मे निगदतः शृणु

बाह्वोर्बले नास्ति समो ममेति भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 71, Verse 13

बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति

बाहू दर्शयमानो हि बाहुद्रविणदर्पितः

चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः

Mahabharata

Sabha Parva, Adhyaya 71, Verse 14

प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा

सिकता वपन्सव्यसाची राजानमनुगच्छति

Mahabharata

Sabha Parva, Adhyaya 71, Verse 15

असक्ताः सिकतास्तस्य यथा संप्रति भारत

असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु

Mahabharata

Sabha Parva, Adhyaya 71, Verse 16

न मे कश्चिद्विजानीयान्मुखमद्येति भारत

मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति

Mahabharata

Sabha Parva, Adhyaya 71, Verse 17

नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो

पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति

Mahabharata

Sabha Parva, Adhyaya 71, Verse 18

एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला

शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत्

Mahabharata

Sabha Parva, Adhyaya 71, Verse 19

यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे

हतपत्यो हतसुता हतबन्धुजनप्रियाः

Mahabharata

Sabha Parva, Adhyaya 71, Verse 20

बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः

एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम्

Mahabharata

Sabha Parva, Adhyaya 71, Verse 21

कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः

सामानि गायन्याम्यानि पुरतो याति भारत

Mahabharata

Sabha Parva, Adhyaya 71, Verse 22

हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा

एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति

Mahabharata

Sabha Parva, Adhyaya 71, Verse 23

हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्

इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः

Mahabharata

Sabha Parva, Adhyaya 71, Verse 24

एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्

कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः

Mahabharata

Sabha Parva, Adhyaya 71, Verse 25

एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात्

अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत

Mahabharata

Sabha Parva, Adhyaya 71, Verse 26

राहुरग्रसदादित्यमपर्वणि विशां पते

उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत

Mahabharata

Sabha Parva, Adhyaya 71, Verse 27

प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः

देवायतनचैत्येषु प्राकाराट्टालकेषु च

Mahabharata

Sabha Parva, Adhyaya 71, Verse 28

एवमेते महोत्पाता वनं गच्छति पाण्डवे

भारतानामभावाय राजन्दुर्मन्त्रिते तव

Mahabharata

Sabha Parva, Adhyaya 71, Verse 29

नारदश्च सभामध्ये कुरूणामग्रतः स्थितः

महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह

Mahabharata

Sabha Parva, Adhyaya 71, Verse 30

इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः

दुर्योधनापराधेन भीमार्जुनबलेन च