Mahabharata

Sabha Parva, Adhyaya 70

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 70, Verse 1

तस्मिन्संप्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्

आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः

Mahabharata

Sabha Parva, Adhyaya 70, Verse 2

यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा

ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत्

Mahabharata

Sabha Parva, Adhyaya 70, Verse 3

कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्

शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत्

Mahabharata

Sabha Parva, Adhyaya 70, Verse 4

वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्

स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा

Mahabharata

Sabha Parva, Adhyaya 70, Verse 5

न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते

साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम्

Mahabharata

Sabha Parva, Adhyaya 70, Verse 6

सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे

अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता

Mahabharata

Sabha Parva, Adhyaya 70, Verse 7

भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते

गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि

Mahabharata

Sabha Parva, Adhyaya 70, Verse 8

सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन्

यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः

Mahabharata

Sabha Parva, Adhyaya 70, Verse 9

तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला

शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ

Mahabharata

Sabha Parva, Adhyaya 70, Verse 10

तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्

अथापश्यत्सुतान्सर्वान्हृताभरणवाससः

Mahabharata

Sabha Parva, Adhyaya 70, Verse 11

रुरुचर्मावृततनून्ह्रिया किंचिदवाङ्मुखान्

परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान्

Mahabharata

Sabha Parva, Adhyaya 70, Verse 12

तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला

सस्वजानावदच्छोकात्तत्तद्विलपती बहु

Mahabharata

Sabha Parva, Adhyaya 70, Verse 13

कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान्

अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा

Mahabharata

Sabha Parva, Adhyaya 70, Verse 14

व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः

कस्यापध्यानजं चेदमागः पश्यामि वो धिया

Mahabharata

Sabha Parva, Adhyaya 70, Verse 15

स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम्

दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः

Mahabharata

Sabha Parva, Adhyaya 70, Verse 16

कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः

वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः

Mahabharata

Sabha Parva, Adhyaya 70, Verse 17

यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम्

शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम्

Mahabharata

Sabha Parva, Adhyaya 70, Verse 18

धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा

यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम्

Mahabharata

Sabha Parva, Adhyaya 70, Verse 19

धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्

मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि

Mahabharata

Sabha Parva, Adhyaya 70, Verse 20

रत्या मत्या च गत्या च ययाहमभिसंधिता

जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम्

Mahabharata

Sabha Parva, Adhyaya 70, Verse 21

एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च

पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः

Mahabharata

Sabha Parva, Adhyaya 70, Verse 22

विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः

प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः

Mahabharata

Sabha Parva, Adhyaya 70, Verse 23

राजा च धृतराष्ट्रः स शोकाकुलितचेतनः

क्षत्तुः संप्रेषयामास शीघ्रमागम्यतामिति

Mahabharata

Sabha Parva, Adhyaya 70, Verse 24

ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्

तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः