Sabha Parva, Adhyaya 69, Verse 1
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्
राजानं सोमदत्तं च महाराजं च बाह्लिकम्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्
राजानं सोमदत्तं च महाराजं च बाह्लिकम्
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः
युयुत्सुं संजयं चैव तथैवान्यान्सभासदः
सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः
न च किंचित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम्
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः
युधिष्ठिर विजानीहि ममेदं भरतर्षभ
नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात्
त्वं वै धर्मान्विजानीषे युधां वेत्ता धनंजयः
हन्तारीणां भीमसेनो नकुलस्त्वर्थसंग्रही
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः
परैरभेद्याः संतुष्टाः को वो न स्पृहयेदिह
एष वै सर्वकल्याणः समाधिस्तव भारत
नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा
द्वैपायनेन कृष्णेन नगरे वारणावते
भृगुतुङ्गे च रामेण दृषद्वत्यां च शंभुना
अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति
द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः
मा हार्षीः सांपराये त्वं बुद्धिं तामृषिपूजिताम्
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे
विसर्गे चैव कौबेरे वारुणे चैव संयमे
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्
वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसंभवम्
अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान्
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम्
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः