Mahabharata

Sabha Parva, Adhyaya 67

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 67, Verse 1

ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्

उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 2

उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर

एहि पाण्डव दीव्येति पिता त्वामाह भारत

Mahabharata

Sabha Parva, Adhyaya 67, Verse 3

धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्

न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि

Mahabharata

Sabha Parva, Adhyaya 67, Verse 4

अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च

जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे

Mahabharata

Sabha Parva, Adhyaya 67, Verse 5

इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः

जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 6

विविशुस्ते सभां तां तु पुनरेव महारथाः

व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 7

यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये

सर्वलोकविनाशाय दैवेनोपनिपीडिताः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 8

अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्

महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 67, Verse 9

वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः

प्रविशेम महारण्यं रौरवाजिनवाससः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 10

त्रयोदशं च सजने अज्ञाताः परिवत्सरम्

ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश

Mahabharata

Sabha Parva, Adhyaya 67, Verse 11

अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश

वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 12

त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्

स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 13

अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर

अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत

Mahabharata

Sabha Parva, Adhyaya 67, Verse 14

अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्

बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 15

जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः

ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 16

जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत्

अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन्

Mahabharata

Sabha Parva, Adhyaya 67, Verse 17

कथं वै मद्विधो राजा स्वधर्ममनुपालयन्

आहूतो विनिवर्तेत दीव्यामि शकुने त्वया

Mahabharata

Sabha Parva, Adhyaya 67, Verse 18

गवाश्वं बहुधेनूकमपर्यन्तमजाविकम्

गजाः कोशो हिरण्यं च दासीदासं च सर्वशः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 19

एष नो ग्लह एवैको वनवासाय पाण्डवाः

यूयं वयं वा विजिता वसेम वनमाश्रिताः

Mahabharata

Sabha Parva, Adhyaya 67, Verse 20

अनेन व्यवसायेन दीव्याम भरतर्षभ

समुत्क्षेपेण चैकेन वनवासाय भारत

Mahabharata

Sabha Parva, Adhyaya 67, Verse 21

प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः

जितमित्येव शकुनिर्युधिष्ठिरमभाषत