Sabha Parva, Adhyaya 66, Verse 1
अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान्
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान्
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता
राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति
दुर्योधनं समासाद्य सामात्यं भरतर्षभ
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत्
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः
मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम्
ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान्
यदि तान्योधयिष्यामः किं वा नः परिहास्यति
अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान्
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः
निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा
संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते
गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः
स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम्
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम्
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्
अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः
न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः
एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः
प्रविशेम महारण्यमजिनैः प्रतिवासिताः
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्
अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ
अयं हि शकुनिर्वेद सविद्यामक्षसंपदम्
दृढमूला वयं राज्ये मित्राणि परिगृह्य च
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम्
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम्
जेष्यामस्तान्वयं राजन्रोचतां ते परंतप
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः
ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्
भूरिश्रवाः शांतनवो विकर्णश्च महारथः
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्
पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता
जाते दुर्योधने क्षत्ता महामतिरभाषत
नीयतां परलोकाय साध्वयं कुलपांसनः
व्यनदज्जातमात्रो हि गोमायुरिव भारत
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत