Mahabharata

Sabha Parva, Adhyaya 65

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 65, Verse 1

राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः

नित्यं हि स्थातुमिच्छामस्तव भारत शासने

Mahabharata

Sabha Parva, Adhyaya 65, Verse 2

अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत

अनुज्ञाताः सहधनाः स्वराज्यमनुशासत

Mahabharata

Sabha Parva, Adhyaya 65, Verse 3

इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम्

धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम्

Mahabharata

Sabha Parva, Adhyaya 65, Verse 4

वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर

विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता

Mahabharata

Sabha Parva, Adhyaya 65, Verse 5

यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत

नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते

Mahabharata

Sabha Parva, Adhyaya 65, Verse 6

न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्

विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः

Mahabharata

Sabha Parva, Adhyaya 65, Verse 7

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः

प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम्

Mahabharata

Sabha Parva, Adhyaya 65, Verse 8

नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः

प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः

Mahabharata

Sabha Parva, Adhyaya 65, Verse 9

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि

सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः

Mahabharata

Sabha Parva, Adhyaya 65, Verse 10

तथाचरितमार्येण त्वयास्मिन्सत्समागमे

दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः

Mahabharata

Sabha Parva, Adhyaya 65, Verse 11

मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम्

उपस्थितं वृद्धमन्धं पितरं पश्य भारत

Mahabharata

Sabha Parva, Adhyaya 65, Verse 12

प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्

मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्

Mahabharata

Sabha Parva, Adhyaya 65, Verse 13

अशोच्याः कुरवो राजन्येषां त्वमनुशासिता

मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः

Mahabharata

Sabha Parva, Adhyaya 65, Verse 14

त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः

श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः

Mahabharata

Sabha Parva, Adhyaya 65, Verse 15

अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश

भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः

Mahabharata

Sabha Parva, Adhyaya 65, Verse 16

इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः

कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह

Mahabharata

Sabha Parva, Adhyaya 65, Verse 17

ते रथान्मेघसंकाशानास्थाय सह कृष्णया

प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम्