Mahabharata

Sabha Parva, Adhyaya 64

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 64, Verse 1

या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः

तासामेतादृशं कर्म न कस्यांचन शुश्रुमः

Mahabharata

Sabha Parva, Adhyaya 64, Verse 2

क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति

द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्

Mahabharata

Sabha Parva, Adhyaya 64, Verse 3

अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्

पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत्

Mahabharata

Sabha Parva, Adhyaya 64, Verse 4

तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः

स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः

Mahabharata

Sabha Parva, Adhyaya 64, Verse 5

त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्

अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः

Mahabharata

Sabha Parva, Adhyaya 64, Verse 6

अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते

देहे त्रितयमेवैतत्पुरुषस्योपजायते

Mahabharata

Sabha Parva, Adhyaya 64, Verse 7

तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्

धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम्

Mahabharata

Sabha Parva, Adhyaya 64, Verse 8

न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः

भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः

Mahabharata

Sabha Parva, Adhyaya 64, Verse 9

स्मरन्ति सुकृतान्येव न वैराणि कृतानि च

सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः

Mahabharata

Sabha Parva, Adhyaya 64, Verse 10

इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान्

अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत

Mahabharata

Sabha Parva, Adhyaya 64, Verse 11

किं नो विवदितेनेह किं नः क्लेशेन भारत

अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम्

Mahabharata

Sabha Parva, Adhyaya 64, Verse 12

इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः

मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत

Mahabharata

Sabha Parva, Adhyaya 64, Verse 13

सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा

स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान्

Mahabharata

Sabha Parva, Adhyaya 64, Verse 14

क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप

सधूमः सस्फुलिङ्गार्चिः पावकः समजायत

Mahabharata

Sabha Parva, Adhyaya 64, Verse 15

भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्

युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः

Mahabharata

Sabha Parva, Adhyaya 64, Verse 16

युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्

मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत

Mahabharata

Sabha Parva, Adhyaya 64, Verse 17

निवार्य तं महाबाहुं कोपसंरक्तलोचनम्

पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः