Mahabharata

Sabha Parva, Adhyaya 63

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 63, Verse 1

त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी

दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी

Mahabharata

Sabha Parva, Adhyaya 63, Verse 2

प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म

ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 3

अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन

अनवद्या वै पतिषु कामवृत्ति;र्नित्यं दास्ये विदितं वै तवास्तु

Mahabharata

Sabha Parva, Adhyaya 63, Verse 4

पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च

दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति

Mahabharata

Sabha Parva, Adhyaya 63, Verse 5

प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः

पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु

Mahabharata

Sabha Parva, Adhyaya 63, Verse 6

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः

राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 7

नाहं कुप्ये सूतपुत्रस्य राज;न्नेष सत्यं दासधर्मः प्रविष्टः

किं विद्विषो वाद्य मां धारयेयु;र्नादेवीस्त्वं यद्यनया नरेन्द्र

Mahabharata

Sabha Parva, Adhyaya 63, Verse 8

राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा

युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम्

Mahabharata

Sabha Parva, Adhyaya 63, Verse 9

भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने

प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे

Mahabharata

Sabha Parva, Adhyaya 63, Verse 10

एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम्

स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 11

कदलीदण्डसदृशं सर्वलक्षणपूजितम्

गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्

Mahabharata

Sabha Parva, Adhyaya 63, Verse 12

अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव

द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्

Mahabharata

Sabha Parva, Adhyaya 63, Verse 13

वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते

प्रोवाच राजमध्ये तं सभां विश्रावयन्निव

Mahabharata

Sabha Parva, Adhyaya 63, Verse 14

पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः

यद्येतमूरुं गदया न भिन्द्यां ते महाहवे

Mahabharata

Sabha Parva, Adhyaya 63, Verse 15

क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः

वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 16

परं भयं पश्यत भीमसेना;द्बुध्यध्वं राज्ञो वरुणस्येव पाशात्

दैवेरितो नूनमयं पुरस्ता;त्परोऽनयो भरतेषूदपादि

Mahabharata

Sabha Parva, Adhyaya 63, Verse 17

अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम्

योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति

Mahabharata

Sabha Parva, Adhyaya 63, Verse 18

इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत्

इमां चेत्पूर्वं कितवोऽग्लहीष्य;दीशोऽभविष्यदपराजितात्मा

Mahabharata

Sabha Parva, Adhyaya 63, Verse 19

स्वप्ने यथैतद्धि धनं जितं स्या;त्तदेवं मन्ये यस्य दीव्यत्यनीशः

गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात

Mahabharata

Sabha Parva, Adhyaya 63, Verse 20

भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव

युधिष्ठिरं चेत्प्रवदन्त्यनीश;मथो दास्यान्मोक्ष्यसे याज्ञसेनि

Mahabharata

Sabha Parva, Adhyaya 63, Verse 21

ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा

ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव

Mahabharata

Sabha Parva, Adhyaya 63, Verse 22

ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे

तं रासभाः प्रत्यभाषन्त राज;न्समन्ततः पक्षिणश्चैव रौद्राः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 23

तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च

भीष्मद्रोणौ गौतमश्चापि विद्वा;न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 24

ततो गान्धारी विदुरश्चैव विद्वां;स्तमुत्पातं घोरमालक्ष्य राज्ञे

निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे

Mahabharata

Sabha Parva, Adhyaya 63, Verse 25

हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुंगवानाम्

स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम्

Mahabharata

Sabha Parva, Adhyaya 63, Verse 26

एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात्

कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 27

वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि

वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती

Mahabharata

Sabha Parva, Adhyaya 63, Verse 28

ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ

सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः

Mahabharata

Sabha Parva, Adhyaya 63, Verse 29

मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः

एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम्

Mahabharata

Sabha Parva, Adhyaya 63, Verse 30

राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्

लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत