Mahabharata

Sabha Parva, Adhyaya 62

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 62, Verse 1

पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्

विह्वलास्मि कृतानेन कर्षता बलिना बलात्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 2

अभिवादं करोम्येषां गुरूणां कुरुसंसदि

न मे स्यादपराधोऽयं यदिदं न कृतं मया

Mahabharata

Sabha Parva, Adhyaya 62, Verse 3

सा तेन च समुद्धूता दुःखेन च तपस्विनी

पतिता विललापेदं सभायामतथोचिता

Mahabharata

Sabha Parva, Adhyaya 62, Verse 4

स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः

न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता

Mahabharata

Sabha Parva, Adhyaya 62, Verse 5

यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे

साहमद्य सभामध्ये दृश्यामि कुरुसंसदि

Mahabharata

Sabha Parva, Adhyaya 62, Verse 6

यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे

स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना

Mahabharata

Sabha Parva, Adhyaya 62, Verse 7

मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम्

स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 8

किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा

सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 9

धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम्

स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 10

कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती

वासुदेवस्य च सखी पार्थिवानां सभामियाम्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 11

तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्

ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 12

अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः

क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 13

जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः

तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 14

उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम्

लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 15

बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः

स धर्मो धर्मवेलायां भवत्यभिहितः परैः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 16

न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात्

सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 17

नूनमन्तः कुलस्यास्य भविता नचिरादिव

तथा हि कुरवः सर्वे लोभमोहपरायणाः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 18

कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम्

धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता

Mahabharata

Sabha Parva, Adhyaya 62, Verse 19

उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्

यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे

Mahabharata

Sabha Parva, Adhyaya 62, Verse 20

एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः

शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 21

युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः

अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति

Mahabharata

Sabha Parva, Adhyaya 62, Verse 22

तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम्

नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 23

दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां;स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः

स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 24

तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव

पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 25

अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः

कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 26

धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः

ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व

Mahabharata

Sabha Parva, Adhyaya 62, Verse 27

सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव

न विब्रुवन्त्यार्यसत्त्वा यथाव;त्पतींश्च ते समवेक्ष्याल्पभाग्यान्

Mahabharata

Sabha Parva, Adhyaya 62, Verse 28

ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः

चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः

सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 29

युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः

किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः

Mahabharata

Sabha Parva, Adhyaya 62, Verse 30

किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः

भीमसेनो यमौ चेति भृशं कौतूहलान्विताः