Mahabharata

Sabha Parva, Adhyaya 60

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 60, Verse 1

धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः

अवैक्षत प्रातिकामीं सभाया;मुवाच चैनं परमार्यमध्ये

Mahabharata

Sabha Parva, Adhyaya 60, Verse 2

त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः

क्षत्ता ह्ययं विवदत्येव भीरु;र्न चास्माकं वृद्धिकामः सदैव

Mahabharata

Sabha Parva, Adhyaya 60, Verse 3

एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य

प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 4

युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत्

सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि

Mahabharata

Sabha Parva, Adhyaya 60, Verse 5

कथं त्वेवं वदसि प्रातिकामि;न्को वै दीव्येद्भार्यया राजपुत्रः

मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किंचित्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 6

यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः

न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि

Mahabharata

Sabha Parva, Adhyaya 60, Verse 7

गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज

किं नु पूर्वं पराजैषीरात्मानं मां नु भारत

एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज

Mahabharata

Sabha Parva, Adhyaya 60, Verse 8

सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा

कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी

किं नु पूर्वं पराजैषीरात्मानमथ वापि माम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 9

युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत्

न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा

Mahabharata

Sabha Parva, Adhyaya 60, Verse 10

इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम्

इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः

Mahabharata

Sabha Parva, Adhyaya 60, Verse 11

स गत्वा राजभवनं दुर्योधनवशानुगः

उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव

Mahabharata

Sabha Parva, Adhyaya 60, Verse 12

सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम्

न वै समृद्धिं पालयते लघीया;न्यत्त्वं सभामेष्यसि राजपुत्रि

Mahabharata

Sabha Parva, Adhyaya 60, Verse 13

एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ

धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः

Mahabharata

Sabha Parva, Adhyaya 60, Verse 14

युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्

द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 60, Verse 15

एकवस्त्रा अधोनीवी रोदमाना रजस्वला

सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 16

ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः

इहैवैतामानय प्रातिकामि;न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु

Mahabharata

Sabha Parva, Adhyaya 60, Verse 17

ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः

विहाय मानं पुनरेव सभ्या;नुवाच कृष्णां किमहं ब्रवीमि

Mahabharata

Sabha Parva, Adhyaya 60, Verse 18

दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः

स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः

Mahabharata

Sabha Parva, Adhyaya 60, Verse 19

ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः

प्रविश्य तद्वेश्म महारथाना;मित्यब्रवीद्द्रौपदीं राजपुत्रीम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 20

एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा

कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि

Mahabharata

Sabha Parva, Adhyaya 60, Verse 21

ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण

आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुंगवस्य

Mahabharata

Sabha Parva, Adhyaya 60, Verse 22

ततो जवेनाभिससार रोषा;द्दुःशासनस्तामभिगर्जमानः

दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 23

ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः

ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन

Mahabharata

Sabha Parva, Adhyaya 60, Verse 24

स तां परामृश्य सभासमीप;मानीय कृष्णामतिकृष्णकेशीम्

दुःशासनो नाथवतीमनाथव;च्चकर्ष वायुः कदलीमिवार्ताम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 25

सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि

एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य

Mahabharata

Sabha Parva, Adhyaya 60, Verse 26

ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम्

कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 27

रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा

द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 28

प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना

ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा

Mahabharata

Sabha Parva, Adhyaya 60, Verse 29

इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः

गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम्

Mahabharata

Sabha Parva, Adhyaya 60, Verse 30

नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः

न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः