Mahabharata

Sabha Parva, Adhyaya 59

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 59, Verse 1

एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम्

संमार्जतां वेश्म परैतु शीघ्र;मानन्दो नः सह दासीभिरस्तु

Mahabharata

Sabha Parva, Adhyaya 59, Verse 2

दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धः

प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात्

Mahabharata

Sabha Parva, Adhyaya 59, Verse 3

आशीविषाः शिरसि ते पूर्णकोशा महाविषाः

मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम्

Mahabharata

Sabha Parva, Adhyaya 59, Verse 4

न हि दासीत्वमापन्ना कृष्णा भवति भारत

अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः

Mahabharata

Sabha Parva, Adhyaya 59, Verse 5

अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः

द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले

Mahabharata

Sabha Parva, Adhyaya 59, Verse 6

नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत

ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्

Mahabharata

Sabha Parva, Adhyaya 59, Verse 7

समुच्चरन्त्यतिवादा हि वक्त्रा;द्यैराहतः शोचति रात्र्यहानि

परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु

Mahabharata

Sabha Parva, Adhyaya 59, Verse 8

अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम्

निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः

Mahabharata

Sabha Parva, Adhyaya 59, Verse 9

न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा

तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव

Mahabharata

Sabha Parva, Adhyaya 59, Verse 10

द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र

त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन

Mahabharata

Sabha Parva, Adhyaya 59, Verse 11

मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव

मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति

Mahabharata

Sabha Parva, Adhyaya 59, Verse 12

अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः

वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव