Sabha Parva, Adhyaya 58, Verse 1
बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
मम वित्तमसंख्येयं यदहं वेद सौबल
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि
अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम्
शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम्
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
गवाश्वं बहुधेनूकमसंख्येयमजाविकम्
यत्किंचिदनुवर्णानां प्राक्सिन्धोरपि सौबल
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
पुरं जनपदो भूमिरब्राह्मणधनैः सह
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः
कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम्
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः
नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम्
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर
अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि
एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च
अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया
गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि
गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति
ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव
यो नः संख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी
अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची
भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम्
यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः
तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी
बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः
अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन्
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा
कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
एतत्पापिष्ठमकरोर्यदात्मानं पराजितः
शिष्टे सति धने राजन्पाप आत्मपराजयः
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान्
पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक्