Mahabharata

Sabha Parva, Adhyaya 57

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 57, Verse 1

परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान्

जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 2

सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति

जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 3

उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि

भर्तृघ्नत्वान्न हि पापीय आहु;स्तस्मात्क्षत्तः किं न बिभेषि पापात्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 4

जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः

द्विषद्भिस्त्वं संप्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः संप्रमोहात्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 5

अमित्रतां याति नरोऽक्षमं ब्रुव;न्निगूहते गुह्यममित्रसंस्तवे

तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे

Mahabharata

Sabha Parva, Adhyaya 57, Verse 6

मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात्

यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 7

अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः

न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 8

एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता

तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि

Mahabharata

Sabha Parva, Adhyaya 57, Verse 9

भिनत्ति शिरसा शैलमहिं भोजयते च यः

स एव तस्य कुरुते कार्याणामनुशासनम्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 10

यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति

मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः

Mahabharata

Sabha Parva, Adhyaya 57, Verse 11

प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति

भस्मापि न स विन्देत शिष्टं क्वचन भारत

Mahabharata

Sabha Parva, Adhyaya 57, Verse 12

न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम्

स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति

Mahabharata

Sabha Parva, Adhyaya 57, Verse 13

एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन्

राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति

Mahabharata

Sabha Parva, Adhyaya 57, Verse 14

अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे

यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः

Mahabharata

Sabha Parva, Adhyaya 57, Verse 15

न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा

ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः

Mahabharata

Sabha Parva, Adhyaya 57, Verse 16

अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु

स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 17

लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः

Mahabharata

Sabha Parva, Adhyaya 57, Verse 18

यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये

अप्रियाण्याह पथ्यानि तेन राजा सहायवान्

Mahabharata

Sabha Parva, Adhyaya 57, Verse 19

अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि

सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य

Mahabharata

Sabha Parva, Adhyaya 57, Verse 20

वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत्

यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः

Mahabharata

Sabha Parva, Adhyaya 57, Verse 21

आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः

एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन