Mahabharata

Sabha Parva, Adhyaya 56

Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 56, Verse 1

द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय

यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम्

Mahabharata

Sabha Parva, Adhyaya 56, Verse 2

प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः

दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः

Mahabharata

Sabha Parva, Adhyaya 56, Verse 3

दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति

विषाणं गौरिव मदात्स्वयमारुजते बलात्

Mahabharata

Sabha Parva, Adhyaya 56, Verse 4

यश्चित्तमन्वेति परस्य राज;न्वीरः कविः स्वामतिपत्य दृष्टिम्

नावं समुद्र इव बालनेत्रा;मारुह्य घोरे व्यसने निमज्जेत्

Mahabharata

Sabha Parva, Adhyaya 56, Verse 5

दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च

अतिनर्माज्जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम्

Mahabharata

Sabha Parva, Adhyaya 56, Verse 6

आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः

युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा

Mahabharata

Sabha Parva, Adhyaya 56, Verse 7

प्रातिपीयाः शांतनवाश्च राज;न्काव्यां वाचं शृणुत मात्यगाद्वः

वैश्वानरं प्रज्वलितं सुघोर;मयुद्धेन प्रशमयतोत्पतन्तम्

Mahabharata

Sabha Parva, Adhyaya 56, Verse 8

यदा मन्युं पाण्डवोऽजातशत्रु;र्न संयच्छेदक्षमयाभिभूतः

वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्

Mahabharata

Sabha Parva, Adhyaya 56, Verse 9

महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः

बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान्

Mahabharata

Sabha Parva, Adhyaya 56, Verse 10

जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः

यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः