Mahabharata

Sabha Parva, Adhyaya 55

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 55, Verse 1

महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु

मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 2

यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः

दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः

Mahabharata

Sabha Parva, Adhyaya 55, Verse 3

गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे

दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम

Mahabharata

Sabha Parva, Adhyaya 55, Verse 4

मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते

आरुह्य तं मज्जति वा पतनं वाधिगच्छति

Mahabharata

Sabha Parva, Adhyaya 55, Verse 5

सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते

प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः

Mahabharata

Sabha Parva, Adhyaya 55, Verse 6

विदितं ते महाराज राजस्वेवासमञ्जसम्

अन्धका यादवा भोजाः समेताः कंसमत्यजन्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 7

नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना

एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः

Mahabharata

Sabha Parva, Adhyaya 55, Verse 8

त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्

निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 9

काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च

क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे

Mahabharata

Sabha Parva, Adhyaya 55, Verse 10

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 11

सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः

इति स्म भाषते काव्यो जम्भत्यागे महासुरान्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 12

हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान्

गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 13

सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परंतप

आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 14

तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ

मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा

Mahabharata

Sabha Parva, Adhyaya 55, Verse 15

जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत

मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः

Mahabharata

Sabha Parva, Adhyaya 55, Verse 16

वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान्

मा गमः ससुतामात्यः सबलश्च पराभवम्

Mahabharata

Sabha Parva, Adhyaya 55, Verse 17

समवेतान्हि कः पार्थान्प्रतियुध्येत भारत

मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः