Sabha Parva, Adhyaya 54, Verse 1
मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम्
शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम्
शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः
इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम्
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्
अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः
संह्रादनो राजरथो य इहास्मानुपावहत्
जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः
वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन्
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः
सर्वे च पुरभेत्तारो नगमेघनिभा गजाः
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
तमेवंवादिनं पार्थं प्रहसन्निव सौबलः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः
मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु
स्नातकानाममात्यानां राज्ञां च मम शासनात्
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
एतावन्त्येव दासानां सहस्राण्युत सन्ति मे
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा
प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः
हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः
एकैको यत्र लभते सहस्रपरमां भृतिम्
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान्
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
रथानां शकटानां च हयानां चायुतानि मे
युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्
षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत
ताम्रलोहैः परिवृता निधयो मे चतुःशताः
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत