Sabha Parva, Adhyaya 53, Verse 1
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि
न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह
शकुने मैव नो जैषीरमार्गेण नृशंसवत्
योऽन्वेति संख्यां निकृतौ विधिज्ञ;श्चेष्टास्वखिन्नः कितवोऽक्षजासु
महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु
अक्षग्लहः सोऽभिभवेत्परं न;स्तेनैव कालो भवतीदमात्थ
दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः
एवमाहायमसितो देवलो मुनिसत्तमः
इमानि लोकद्वाराणि यो वै संचरते सदा
इदं वै देवनं पापं मायया कितवैः सह
धर्मेण तु जयो युद्धे तत्परं साधु देवनम्
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत
अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम्
शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे
तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम्
नाहं निकृत्या कामये सुखान्युत धनानि वा
कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते
श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्
आहूतो न निवर्तेयमिति मे व्रतमाहितम्
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः
अस्मिन्समागमे केन देवनं मे भविष्यति
प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम्
अहं दातास्मि रत्नानां धनानां च विशां पते
मदर्थे देविता चायं शकुनिर्मातुलो मम
अन्येनान्यस्य विषमं देवनं प्रतिभाति मे
एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम्
उपोह्यमाने द्यूते तु राजानः सर्व एव ते
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः
नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत
ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः
सिंहासनानि भूरीणि विचित्राणि च भेजिरे
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम्
अयं बहुधनो राजन्सागरावर्तसंभवः
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः
एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव
भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम्
सन्ति मे मणयश्चैव धनानि विविधानि च
मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम्
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्
जितमित्येव शकुनिर्युधिष्ठिरमभाषत