Mahabharata

Sabha Parva, Adhyaya 52

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 52, Verse 1

ततः प्रायाद्विदुरोऽश्वैरुदारै;र्महाजवैर्बलिभिः साधुदान्तैः

बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम्

Mahabharata

Sabha Parva, Adhyaya 52, Verse 2

सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्

प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 3

स राजगृहमासाद्य कुबेरभवनोपमम्

अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्

Mahabharata

Sabha Parva, Adhyaya 52, Verse 4

तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत्

पूजापूर्वं प्रतिगृह्याजमीढ;स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम्

Mahabharata

Sabha Parva, Adhyaya 52, Verse 5

विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि

कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित्

Mahabharata

Sabha Parva, Adhyaya 52, Verse 6

राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः

प्रीतो राजन्पुत्रगणैर्विनीतै;र्विशोक एवात्मरतिर्दृढात्मा

Mahabharata

Sabha Parva, Adhyaya 52, Verse 7

इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च

इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र

Mahabharata

Sabha Parva, Adhyaya 52, Verse 8

समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च

प्रीयामहे भवतः संगमेन; समागताः कुरवश्चैव सर्वे

Mahabharata

Sabha Parva, Adhyaya 52, Verse 9

दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा

तान्द्रक्ष्यसे कितवान्संनिविष्टा;नित्यागतोऽहं नृपते तज्जुषस्व

Mahabharata

Sabha Parva, Adhyaya 52, Verse 10

द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः

किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म

Mahabharata

Sabha Parva, Adhyaya 52, Verse 11

जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे

राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व

Mahabharata

Sabha Parva, Adhyaya 52, Verse 12

के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः

पृच्छामि त्वां विदुर ब्रूहि नस्ता;न्यैर्दीव्यामः शतशः संनिपत्य

Mahabharata

Sabha Parva, Adhyaya 52, Verse 13

गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः

विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च

Mahabharata

Sabha Parva, Adhyaya 52, Verse 14

महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति

धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे

Mahabharata

Sabha Parva, Adhyaya 52, Verse 15

नाहं राज्ञो धृतराष्ट्रस्य शासना;न्न गन्तुमिच्छामि कवे दुरोदरम्

इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा

Mahabharata

Sabha Parva, Adhyaya 52, Verse 16

न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम्

आहूतोऽहं न निवर्ते कदाचि;त्तदाहितं शाश्वतं वै व्रतं मे

Mahabharata

Sabha Parva, Adhyaya 52, Verse 17

एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्

प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा

Mahabharata

Sabha Parva, Adhyaya 52, Verse 18

दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत्

धातुश्च वशमन्वेति पाशैरिव नरः सितः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 19

इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः

अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 20

बाह्लिकेन रथं दत्तमास्थाय परवीरहा

परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 21

राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः

धृतराष्ट्रेण चाहूतः कालस्य समयेन च

Mahabharata

Sabha Parva, Adhyaya 52, Verse 22

स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ

समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 23

तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च

समियाय यथान्यायं द्रौणिना च विभुः सह

Mahabharata

Sabha Parva, Adhyaya 52, Verse 24

समेत्य च महाबाहुः सोमदत्तेन चैव ह

दुर्योधनेन शल्येन सौबलेन च वीर्यवान्

Mahabharata

Sabha Parva, Adhyaya 52, Verse 25

ये चान्ये तत्र राजानः पूर्वमेव समागताः

जयद्रथेन च तथा कुरुभिश्चापि सर्वशः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 26

ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः

प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 27

ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्

स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्

Mahabharata

Sabha Parva, Adhyaya 52, Verse 28

अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः

ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्

Mahabharata

Sabha Parva, Adhyaya 52, Verse 29

राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः

चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः

Mahabharata

Sabha Parva, Adhyaya 52, Verse 30

ततो हर्षः समभवत्कौरवाणां विशां पते

तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्