Mahabharata

Sabha Parva, Adhyaya 51

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 51, Verse 1

यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे

तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः

Mahabharata

Sabha Parva, Adhyaya 51, Verse 2

अगत्वा संशयमहमयुद्ध्वा च चमूमुखे

अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये

Mahabharata

Sabha Parva, Adhyaya 51, Verse 3

ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत

अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 4

अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्

द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 5

स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः

तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 6

विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः

पाण्डवानां हिते युक्तो न तथा मम कौरव

Mahabharata

Sabha Parva, Adhyaya 51, Verse 7

नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः

मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन

Mahabharata

Sabha Parva, Adhyaya 51, Verse 8

भयं परिहरन्मन्द आत्मानं परिपालयन्

वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति

Mahabharata

Sabha Parva, Adhyaya 51, Verse 9

न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते

यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 10

सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये

वैरं विकारं सृजति तद्वै शस्त्रमनायसम्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 11

अनर्थमर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम्

तद्वै प्रवृत्तं तु यथा कथंचि;द्विमोक्षयेच्चाप्यसिसायकांश्च

Mahabharata

Sabha Parva, Adhyaya 51, Verse 12

द्यूते पुराणैर्व्यवहारः प्रणीत;स्तत्रात्ययो नास्ति न संप्रहारः

तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व

Mahabharata

Sabha Parva, Adhyaya 51, Verse 13

स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम्

भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व

Mahabharata

Sabha Parva, Adhyaya 51, Verse 14

वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र

पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 15

दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन

तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति

Mahabharata

Sabha Parva, Adhyaya 51, Verse 16

एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च

शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः

Mahabharata

Sabha Parva, Adhyaya 51, Verse 17

सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम्

सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः

Mahabharata

Sabha Parva, Adhyaya 51, Verse 18

श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु

सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः

Mahabharata

Sabha Parva, Adhyaya 51, Verse 19

कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम्

चित्रैर्हैमैरासनैरभ्युपेता;माचख्युस्ते तस्य राज्ञः प्रतीताः

Mahabharata

Sabha Parva, Adhyaya 51, Verse 20

ततो विद्वान्विदुरं मन्त्रिमुख्य;मुवाचेदं धृतराष्ट्रो नरेन्द्रः

युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व

Mahabharata

Sabha Parva, Adhyaya 51, Verse 21

सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः

सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति

Mahabharata

Sabha Parva, Adhyaya 51, Verse 22

मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः

मत्वा च दुस्तरं दैवमेतद्राजा चकार ह

Mahabharata

Sabha Parva, Adhyaya 51, Verse 23

अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः

नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 24

नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि

पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या;देतच्छङ्के द्यूतकृते नरेन्द्र

Mahabharata

Sabha Parva, Adhyaya 51, Verse 25

नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत्

धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम्

Mahabharata

Sabha Parva, Adhyaya 51, Verse 26

तदद्य विदुर प्राप्य राजानं मम शासनात्

क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम्