Mahabharata

Sabha Parva, Adhyaya 50

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 50, Verse 1

त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः

द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा

Mahabharata

Sabha Parva, Adhyaya 50, Verse 2

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्

अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 50, Verse 3

तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप

पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह

Mahabharata

Sabha Parva, Adhyaya 50, Verse 4

अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ

ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्

Mahabharata

Sabha Parva, Adhyaya 50, Verse 5

आहरिष्यन्ति राजानस्तवापि विपुलं धनम्

प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च

Mahabharata

Sabha Parva, Adhyaya 50, Verse 6

अनर्थाचरितं तात परस्वस्पृहणं भृशम्

स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते

Mahabharata

Sabha Parva, Adhyaya 50, Verse 7

अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु

उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम्

Mahabharata

Sabha Parva, Adhyaya 50, Verse 8

विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः

अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति

Mahabharata

Sabha Parva, Adhyaya 50, Verse 9

अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान्

क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 50, Verse 10

जानन्वै मोहयसि मां नावि नौरिव संयता

स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्

Mahabharata

Sabha Parva, Adhyaya 50, Verse 11

न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता

भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः

Mahabharata

Sabha Parva, Adhyaya 50, Verse 12

परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति

पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः

Mahabharata

Sabha Parva, Adhyaya 50, Verse 13

राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः

प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम्

Mahabharata

Sabha Parva, Adhyaya 50, Verse 14

लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः

तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि

Mahabharata

Sabha Parva, Adhyaya 50, Verse 15

क्षत्रियस्य महाराज जये वृत्तिः समाहिता

स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 50, Verse 16

प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः

प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 50, Verse 17

प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः

तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्

Mahabharata

Sabha Parva, Adhyaya 50, Verse 18

असंतोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्

समुच्छ्रये यो यतते स राजन्परमो नयी

Mahabharata

Sabha Parva, Adhyaya 50, Verse 19

ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा

पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः

Mahabharata

Sabha Parva, Adhyaya 50, Verse 20

अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः

शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी

Mahabharata

Sabha Parva, Adhyaya 50, Verse 21

द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

Mahabharata

Sabha Parva, Adhyaya 50, Verse 22

नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते

येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः

Mahabharata

Sabha Parva, Adhyaya 50, Verse 23

शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते

व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः

Mahabharata

Sabha Parva, Adhyaya 50, Verse 24

अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः

वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्

Mahabharata

Sabha Parva, Adhyaya 50, Verse 25

आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत

एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः

Mahabharata

Sabha Parva, Adhyaya 50, Verse 26

जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते

एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः

Mahabharata

Sabha Parva, Adhyaya 50, Verse 27

नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति

अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि

Mahabharata

Sabha Parva, Adhyaya 50, Verse 28

अतादृशस्य किं मेऽद्य जीवितेन विशां पते

वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः