Mahabharata

Sabha Parva, Adhyaya 49

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 49, Verse 1

आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः

पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 2

धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः

मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते

Mahabharata

Sabha Parva, Adhyaya 49, Verse 3

दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः

आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 4

आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत

अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 5

बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम्

सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 6

सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः

ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम्

Mahabharata

Sabha Parva, Adhyaya 49, Verse 7

दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः

वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्

Mahabharata

Sabha Parva, Adhyaya 49, Verse 8

मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ

आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा

Mahabharata

Sabha Parva, Adhyaya 49, Verse 9

चेकितान उपासङ्गं धनुः काश्य उपाहरत्

असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम्

Mahabharata

Sabha Parva, Adhyaya 49, Verse 10

अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः

नारदं वै पुरस्कृत्य देवलं चासितं मुनिम्

Mahabharata

Sabha Parva, Adhyaya 49, Verse 11

प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः

जामदग्न्येन सहितास्तथान्ये वेदपारगाः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 12

अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम्

महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा

Mahabharata

Sabha Parva, Adhyaya 49, Verse 13

अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः

धनंजयश्च व्यजने भीमसेनश्च पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 14

उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः

तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 15

सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा

तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्

Mahabharata

Sabha Parva, Adhyaya 49, Verse 16

गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्

उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 17

तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात्

प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन्

Mahabharata

Sabha Parva, Adhyaya 49, Verse 18

प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा

धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 19

सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः

विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा

Mahabharata

Sabha Parva, Adhyaya 49, Verse 20

ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्

शतान्यनडुहां पञ्च द्विजमुख्येषु भारत

Mahabharata

Sabha Parva, Adhyaya 49, Verse 21

नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च

न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 22

यथातिमात्रं कौन्तेयः श्रिया परमया युतः

राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः

Mahabharata

Sabha Parva, Adhyaya 49, Verse 23

एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो

कथं नु जीवितं श्रेयो मम पश्यसि भारत

Mahabharata

Sabha Parva, Adhyaya 49, Verse 24

अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप

कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत

Mahabharata

Sabha Parva, Adhyaya 49, Verse 25

एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर

तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च