Sabha Parva, Adhyaya 48, Verse 1
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम्
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम्
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
ये ते कीचकवेणूनां छायां रम्यामुपासते
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान्
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः
उत्तरादपि कैलासादोषधीः सुमहाबलाः
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये
फलमूलाशना ये च किराताश्चर्मवाससः
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः
कैरातिकानामयुतं दासीनां च विशां पते
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह
वसातयः समौलेयाः सह क्षुद्रकमालवैः
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात्
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान्
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान्
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः
एते चान्ये च बहवो गणा दिग्भ्यः समागताः
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः
राजा चित्ररथो नाम गन्धर्वो वासवानुगः
शतानि चत्वार्यददद्धयानां वातरंहसाम्
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्
आम्रपत्रसवर्णानामददद्धेममालिनाम्
कृती तु राजा कौरव्य शूकराणां विशां पते
अददद्गजरत्नानां शतानि सुबहून्यपि
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान्
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम्
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश
दासानामयुतं चैव सदाराणां विशां पते
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्