Mahabharata

Sabha Parva, Adhyaya 46

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 46, Verse 1

कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्

यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः

Mahabharata

Sabha Parva, Adhyaya 46, Verse 2

के च तत्र सभास्तारा राजानो ब्रह्मवित्तम

के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन्

Mahabharata

Sabha Parva, Adhyaya 46, Verse 3

विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज

मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम

Mahabharata

Sabha Parva, Adhyaya 46, Verse 4

एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान्

आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित्

Mahabharata

Sabha Parva, Adhyaya 46, Verse 5

शृणु मे विस्तरेणेमां कथां भरतसत्तम

भूय एव महाराज यदि ते श्रवणे मतिः

Mahabharata

Sabha Parva, Adhyaya 46, Verse 6

विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः

दुर्योधनमिदं वाक्यमुवाच विजने पुनः

Mahabharata

Sabha Parva, Adhyaya 46, Verse 7

अलं द्यूतेन गान्धारे विदुरो न प्रशंसति

न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति

Mahabharata

Sabha Parva, Adhyaya 46, Verse 8

हितं हि परमं मन्ये विदुरो यत्प्रभाषते

क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव

Mahabharata

Sabha Parva, Adhyaya 46, Verse 9

देवर्षिर्वासवगुरुर्देवराजाय धीमते

यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः

Mahabharata

Sabha Parva, Adhyaya 46, Verse 10

तद्वेद विदुरः सर्वं सरहस्यं महाकविः

स्थितश्च वचने तस्य सदाहमपि पुत्रक

Mahabharata

Sabha Parva, Adhyaya 46, Verse 11

विदुरो वापि मेधावी कुरूणां प्रवरो मतः

उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप

Mahabharata

Sabha Parva, Adhyaya 46, Verse 12

द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते

भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय

Mahabharata

Sabha Parva, Adhyaya 46, Verse 13

पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्

प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम्

Mahabharata

Sabha Parva, Adhyaya 46, Verse 14

अधीतवान्कृती शास्त्रे लालितः सततं गृहे

भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम्

Mahabharata

Sabha Parva, Adhyaya 46, Verse 15

पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम्

तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक

Mahabharata

Sabha Parva, Adhyaya 46, Verse 16

स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्

नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा

Mahabharata

Sabha Parva, Adhyaya 46, Verse 17

तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्

समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि

Mahabharata

Sabha Parva, Adhyaya 46, Verse 18

अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः

नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः

Mahabharata

Sabha Parva, Adhyaya 46, Verse 19

न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो

ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे

Mahabharata

Sabha Parva, Adhyaya 46, Verse 20

सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम्

स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते

Mahabharata

Sabha Parva, Adhyaya 46, Verse 21

आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः

कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने

Mahabharata

Sabha Parva, Adhyaya 46, Verse 22

हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा

अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने

Mahabharata

Sabha Parva, Adhyaya 46, Verse 23

ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते

युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे

Mahabharata

Sabha Parva, Adhyaya 46, Verse 24

उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्

नादृश्यत परः प्रान्तो नापरस्तत्र भारत

Mahabharata

Sabha Parva, Adhyaya 46, Verse 25

न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः

प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु

Mahabharata

Sabha Parva, Adhyaya 46, Verse 26

कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्

अपश्यं नलिनीं पूर्णामुदकस्येव भारत

Mahabharata

Sabha Parva, Adhyaya 46, Verse 27

वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः

शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम्

Mahabharata

Sabha Parva, Adhyaya 46, Verse 28

तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम्

सपत्नेनावहासो हि स मां दहति भारत

Mahabharata

Sabha Parva, Adhyaya 46, Verse 29

पुनश्च तादृशीमेव वापीं जलजशालिनीम्

मत्वा शिलासमां तोये पतितोऽस्मि नराधिप

Mahabharata

Sabha Parva, Adhyaya 46, Verse 30

तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम्

द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम