Mahabharata

Sabha Parva, Adhyaya 45

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 45, Verse 1

अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम्

युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 2

प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्

प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा

Mahabharata

Sabha Parva, Adhyaya 45, Verse 3

दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्

उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 4

दुर्योधनो महाराज विवर्णो हरिणः कृशः

दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 45, Verse 5

न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम्

ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे

Mahabharata

Sabha Parva, Adhyaya 45, Verse 6

दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक

श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन

Mahabharata

Sabha Parva, Adhyaya 45, Verse 7

अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम्

चिन्तयंश्च न पश्यामि शोकस्य तव संभवम्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 8

ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम्

भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 9

आच्छादयसि प्रावारानश्नासि पिशितौदनम्

आजानेया वहन्ति त्वां केनासि हरिणः कृशः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 10

शयनानि महार्हाणि योषितश्च मनोरमाः

गुणवन्ति च वेश्मानि विहाराश्च यथासुखम्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 11

देवानामिव ते सर्वं वाचि बद्धं न संशयः

स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक

Mahabharata

Sabha Parva, Adhyaya 45, Verse 12

अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा

अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 13

अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः

क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते

Mahabharata

Sabha Parva, Adhyaya 45, Verse 14

संतोषो वै श्रियं हन्ति अभिमानश्च भारत

अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 15

न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे

ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम

Mahabharata

Sabha Parva, Adhyaya 45, Verse 16

सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च

अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम्

तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 17

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः

त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 18

दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम्

भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने

Mahabharata

Sabha Parva, Adhyaya 45, Verse 19

कदलीमृगमोकानि कृष्णश्यामारुणानि च

काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 20

रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः

त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत

Mahabharata

Sabha Parva, Adhyaya 45, Verse 21

पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते

आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 22

न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः

यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 23

अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप

शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो

Mahabharata

Sabha Parva, Adhyaya 45, Verse 24

ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः

त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 25

कमण्डलूनुपादाय जातरूपमयाञ्शुभान्

एवं बलिं समादाय प्रवेशं लेभिरे ततः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 26

यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः

तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः

Mahabharata

Sabha Parva, Adhyaya 45, Verse 27

शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्

दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत्

Mahabharata

Sabha Parva, Adhyaya 45, Verse 28

गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ

तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 45, Verse 29

उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः

इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु

Mahabharata

Sabha Parva, Adhyaya 45, Verse 30

पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम्

स्थापिता तत्र संज्ञाभूच्छङ्खो ध्मायति नित्यशः