Mahabharata

Sabha Parva, Adhyaya 44

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 44, Verse 1

दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्

भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा

Mahabharata

Sabha Parva, Adhyaya 44, Verse 2

अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत्

विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः

Mahabharata

Sabha Parva, Adhyaya 44, Verse 3

तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह

सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान्

Mahabharata

Sabha Parva, Adhyaya 44, Verse 4

लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते

विवृद्धस्तेजसा तेषां तत्र का परिदेवना

Mahabharata

Sabha Parva, Adhyaya 44, Verse 5

धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी

लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम्

Mahabharata

Sabha Parva, Adhyaya 44, Verse 6

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः

कृता वशे महीपालास्तत्र का परिदेवना

Mahabharata

Sabha Parva, Adhyaya 44, Verse 7

अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्

सभां तां कारयामास सव्यसाची परंतपः

Mahabharata

Sabha Parva, Adhyaya 44, Verse 8

तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः

वहन्ति तां सभां भीमास्तत्र का परिदेवना

Mahabharata

Sabha Parva, Adhyaya 44, Verse 9

यच्चासहायतां राजन्नुक्तवानसि भारत

तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः

Mahabharata

Sabha Parva, Adhyaya 44, Verse 10

द्रोणस्तव महेष्वासः सह पुत्रेण धीमता

सूतपुत्रश्च राधेयो गौतमश्च महारथः

Mahabharata

Sabha Parva, Adhyaya 44, Verse 11

अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान्

एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम्

Mahabharata

Sabha Parva, Adhyaya 44, Verse 12

त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः

एतानेव विजेष्यामि यदि त्वमनुमन्यसे

Mahabharata

Sabha Parva, Adhyaya 44, Verse 13

एतेषु विजितेष्वद्य भविष्यति मही मम

सर्वे च पृथिवीपालाः सभा सा च महाधना

Mahabharata

Sabha Parva, Adhyaya 44, Verse 14

धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः

नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः

Mahabharata

Sabha Parva, Adhyaya 44, Verse 15

नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि

महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः

Mahabharata

Sabha Parva, Adhyaya 44, Verse 16

अहं तु तद्विजानामि विजेतुं येन शक्यते

युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च

Mahabharata

Sabha Parva, Adhyaya 44, Verse 17

अप्रमादेन सुहृदामन्येषां च महात्मनाम्

यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल

Mahabharata

Sabha Parva, Adhyaya 44, Verse 18

द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्

समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम्

Mahabharata

Sabha Parva, Adhyaya 44, Verse 19

देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि

त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय

Mahabharata

Sabha Parva, Adhyaya 44, Verse 20

तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्

राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ

Mahabharata

Sabha Parva, Adhyaya 44, Verse 21

इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय

अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः

Mahabharata

Sabha Parva, Adhyaya 44, Verse 22

त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल

निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम्