Mahabharata

Sabha Parva, Adhyaya 43

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 43, Verse 1

वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ

शनैर्ददर्श तां सर्वां सभां शकुनिना सह

Mahabharata

Sabha Parva, Adhyaya 43, Verse 2

तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः

न दृष्टपूर्वा ये तेन नगरे नागसाह्वये

Mahabharata

Sabha Parva, Adhyaya 43, Verse 3

स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः

स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया

Mahabharata

Sabha Parva, Adhyaya 43, Verse 4

स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः

दुर्मना विमुखश्चैव परिचक्राम तां सभाम्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 5

ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्

वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले

Mahabharata

Sabha Parva, Adhyaya 43, Verse 6

जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम्

वासांसि च शुभान्यस्मै प्रददू राजशासनात्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 7

तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः

अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा

Mahabharata

Sabha Parva, Adhyaya 43, Verse 8

नामर्षयत्ततस्तेषामवहासममर्षणः

आकारं रक्षमाणस्तु न स तान्समुदैक्षत

Mahabharata

Sabha Parva, Adhyaya 43, Verse 9

पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम्

आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 10

द्वारं च विवृताकारं ललाटेन समाहनत्

संवृतं चेति मन्वानो द्वारदेशादुपारमत्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 11

एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते

पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 12

अप्रहृष्टेन मनसा राजसूये महाक्रतौ

प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 13

पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः

दुर्योधनस्य नृपतेः पापा मतिरजायत

Mahabharata

Sabha Parva, Adhyaya 43, Verse 14

पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्

कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह

Mahabharata

Sabha Parva, Adhyaya 43, Verse 15

महिमानं परं चापि पाण्डवानां महात्मनाम्

दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत

Mahabharata

Sabha Parva, Adhyaya 43, Verse 16

स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन्

श्रियं च तामनुपमां धर्मराजस्य धीमतः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 17

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा

नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 18

अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत

दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि

Mahabharata

Sabha Parva, Adhyaya 43, Verse 19

दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्

जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 20

तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल

यथा शक्रस्य देवेषु तथाभूतं महाद्युते

Mahabharata

Sabha Parva, Adhyaya 43, Verse 21

अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम्

शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 22

पश्य सात्वतमुख्येन शिशुपालं निपातितम्

न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 23

दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना

क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति

Mahabharata

Sabha Parva, Adhyaya 43, Verse 24

वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम्

सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 25

तथा हि रत्नान्यादाय विविधानि नृपा नृपम्

उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 26

श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे

अमर्षवशमापन्नो दह्येऽहमतथोचितः

Mahabharata

Sabha Parva, Adhyaya 43, Verse 27

वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्

अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 28

को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान्

सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च

Mahabharata

Sabha Parva, Adhyaya 43, Verse 29

सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि

योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्

Mahabharata

Sabha Parva, Adhyaya 43, Verse 30

ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्

यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत्