Mahabharata

Sabha Parva, Adhyaya 41

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 41, Verse 1

नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम्

नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 2

को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः

क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 3

एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम्

तमेव पुनरादातुमिच्छत्पृथुयशा हरिः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 4

येनैष कुरुशार्दूल शार्दूल इव चेदिराट्

गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 5

ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा

उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 6

द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः

यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 7

संस्तवाय मनो भीष्म परेषां रमते सदा

यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 8

दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम्

जायमानेन येनेयमभवद्दारिता मही

Mahabharata

Sabha Parva, Adhyaya 41, Verse 9

वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले

स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 10

द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ

स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ

Mahabharata

Sabha Parva, Adhyaya 41, Verse 11

ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम्

इमां वसुमतीं कुर्यादशेषामिति मे मतिः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 12

द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्

अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि

Mahabharata

Sabha Parva, Adhyaya 41, Verse 13

शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान्

स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा

Mahabharata

Sabha Parva, Adhyaya 41, Verse 14

किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप

पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 15

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः

अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 16

यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः

केशवं तच्च ते भीष्म न कश्चिदनुमन्यते

Mahabharata

Sabha Parva, Adhyaya 41, Verse 17

कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि

समावेशयसे सर्वं जगत्केवलकाम्यया

Mahabharata

Sabha Parva, Adhyaya 41, Verse 18

अथ वैषा न ते भक्तिः प्रकृतिं याति भारत

मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा

Mahabharata

Sabha Parva, Adhyaya 41, Verse 19

भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे

भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 20

मा साहसमितीदं सा सततं वाशते किल

साहसं चात्मनातीव चरन्ती नावबुध्यते

Mahabharata

Sabha Parva, Adhyaya 41, Verse 21

सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः

दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना

Mahabharata

Sabha Parva, Adhyaya 41, Verse 22

इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम्

तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे

Mahabharata

Sabha Parva, Adhyaya 41, Verse 23

इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम्

लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 24

ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः

उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः

Mahabharata

Sabha Parva, Adhyaya 41, Verse 25

इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम्

योऽहं न गणयाम्येतांस्तृणानीव नराधिपान्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 26

एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः

केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे

Mahabharata

Sabha Parva, Adhyaya 41, Verse 27

केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः

पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 28

हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः

सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना

Mahabharata

Sabha Parva, Adhyaya 41, Verse 29

इति तेषां वचः श्रुत्वा ततः कुरुपितामहः

उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान्

Mahabharata

Sabha Parva, Adhyaya 41, Verse 30

उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये

यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः