Sabha Parva, Adhyaya 40, Verse 1
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः
रासभारावसदृशं रुराव च ननाद च
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः
रासभारावसदृशं रुराव च ननाद च
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ
वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम्
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्
चिन्तासंमूढहृदयं वागुवाचाशरीरिणी
एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम्
न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः
मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः
पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत्
येनेदमीरितं वाक्यं ममैव तनयं प्रति
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति
अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः
येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ
तृतीयमेतद्बालस्य ललाटस्थं च लोचनम्
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्
धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः
तान्पूजयित्वा संप्राप्तान्यथार्हं स महीपतिः
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम्
शिशुरङ्के समारूढो न तत्प्राप निदर्शनम्
ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ
यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा
अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान्
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ
अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ
पेततुस्तच्च नयनं निममज्ज ललाटजम्
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत
ददस्व मे वरं कृष्ण भयार्ताया महाभुज
त्वं ह्यार्तानां समाश्वासो भीतानामभयंकरः
पितृष्वसारं मा भैषीरित्युवाच जनार्दनः
ददानि कं वरं किं वा करवाणि पितृष्वसः
शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः
पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः
एवमेष नृपः पापः शिशुपालः सुमन्दधीः
त्वां समाह्वयते वीर गोविन्दवरदर्पितः