Sabha Parva, Adhyaya 39, Verse 1
स मे बहुमतो राजा जरासंधो महाबलः
योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
स मे बहुमतो राजा जरासंधो महाबलः
योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे
केशवेन कृतं यत्तु जरासंधवधे तदा
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते
अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना
दृष्टः प्रभावः कृष्णेन जरासंधस्य धीमतः
येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता
नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने
भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः
जरासंधेन कौरव्य कृष्णेन विकृतं कृतम्
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति
इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति
अथ वा नैतदाश्चर्यं येषां त्वमसि भारत
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्
तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते
भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः
त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव
दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम्
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम्
भीष्म एव महाबाहुर्महासेनमिवेश्वरः
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः
नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः
समुद्धूतो घनापाये वेलामिव महोदधिः
शिशुपालस्तु संक्रुद्धे भीमसेने नराधिप
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः
उत्पतन्तं तु वेगेन पुनः पुनररिंदमः
न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्
भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम्
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः
मत्प्रतापाग्निनिर्दग्धं पतंगमिव वह्निना
ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः
भीमसेनमुवाचेदं भीष्मो मतिमतां वरः