Sabha Parva, Adhyaya 38, Verse 1
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान्
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान्
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः
नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात्
तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः
त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम्
तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ
चेतनारहितं काष्ठं यद्यनेन निपातितम्
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम्
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि
इति ते भीष्म शृण्वानाः परं विस्मयमागताः
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः
स चानेन हतः कंस इत्येतन्न महाद्भुतम्
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्
यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम
अजानत इवाख्यासि संस्तुवन्कुरुसत्तम
गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः
संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः
एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम्
न गाथा गाथिनं शास्ति बहु चेदपि गायति
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः
अतः पापीयसी चैषां पाण्डवानामपीष्यते
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः
धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः
कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना
अम्बा नामेति भद्रं ते कथं सापहृता त्वया
यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः
भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः
दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः
तव जातान्यपत्यानि सज्जनाचरिते पथि
न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः
न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित्
न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन्
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः
सर्वमेतदपत्यस्य कलां नार्हति षोडशीम्
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्
सर्वं तदनपत्यस्य मोघं भवति निश्चयात्
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात्
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम्
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह