Sabha Parva, Adhyaya 37, Verse 1
ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम्
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम्
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः
भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम्
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा
असौ रोषात्प्रचलितो महान्नृपतिसागरः
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह
यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत्
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः
प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः
वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः
भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ
न हि संबुध्यते तावत्सुप्तः सिंह इवाच्युतः
तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुंगवः
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम्
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः
यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम्
आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत