Mahabharata

Sabha Parva, Adhyaya 36

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 36, Verse 1

एवमुक्त्वा ततो भीष्मो विरराम महायशाः

व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः

Mahabharata

Sabha Parva, Adhyaya 36, Verse 2

केशवं केशिहन्तारमप्रमेयपराक्रमम्

पूज्यमानं मया यो वः कृष्णं न सहते नृपाः

Mahabharata

Sabha Parva, Adhyaya 36, Verse 3

सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्

एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः

Mahabharata

Sabha Parva, Adhyaya 36, Verse 4

मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम्

अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः

Mahabharata

Sabha Parva, Adhyaya 36, Verse 5

ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्

मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे

Mahabharata

Sabha Parva, Adhyaya 36, Verse 6

ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि

अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति

Mahabharata

Sabha Parva, Adhyaya 36, Verse 7

आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः

सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्

Mahabharata

Sabha Parva, Adhyaya 36, Verse 8

तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः

संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा

Mahabharata

Sabha Parva, Adhyaya 36, Verse 9

युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्

अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्

Mahabharata

Sabha Parva, Adhyaya 36, Verse 10

सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ

आमिषादपकृष्टानां सिंहानामिव गर्जताम्

Mahabharata

Sabha Parva, Adhyaya 36, Verse 11

तं बलौघमपर्यन्तं राजसागरमक्षयम्

कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा

Mahabharata

Sabha Parva, Adhyaya 36, Verse 12

पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः

सहदेवो नृणां देवः समापयत कर्म तत्

Mahabharata

Sabha Parva, Adhyaya 36, Verse 13

तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः

अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान्

Mahabharata

Sabha Parva, Adhyaya 36, Verse 14

स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम्

युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान्

Mahabharata

Sabha Parva, Adhyaya 36, Verse 15

इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः

यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः