Mahabharata

Sabha Parva, Adhyaya 35

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 35, Verse 1

ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्

उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः

Mahabharata

Sabha Parva, Adhyaya 35, Verse 2

नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्

अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 3

न हि धर्मं परं जातु नावबुध्येत पार्थिव

भीष्मः शांतनवस्त्वेनं मावमंस्था अतोऽन्यथा

Mahabharata

Sabha Parva, Adhyaya 35, Verse 4

पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून्

मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि

Mahabharata

Sabha Parva, Adhyaya 35, Verse 5

वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम्

न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः

Mahabharata

Sabha Parva, Adhyaya 35, Verse 6

नास्मा अनुनयो देयो नायमर्हति सान्त्वनम्

लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते

Mahabharata

Sabha Parva, Adhyaya 35, Verse 7

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः

यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः

Mahabharata

Sabha Parva, Adhyaya 35, Verse 8

अस्यां च समितौ राज्ञामेकमप्यजितं युधि

न पश्यामि महीपालं सात्वतीपुत्रतेजसा

Mahabharata

Sabha Parva, Adhyaya 35, Verse 9

न हि केवलमस्माकमयमर्च्यतमोऽच्युतः

त्रयाणामपि लोकानामर्चनीयो जनार्दनः

Mahabharata

Sabha Parva, Adhyaya 35, Verse 10

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः

जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 11

तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्

एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी

Mahabharata

Sabha Parva, Adhyaya 35, Verse 12

ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः

तेषां कथयतां शौरेरहं गुणवतो गुणान्

समागतानामश्रौषं बहून्बहुमतान्सताम्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 13

कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः

बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे

Mahabharata

Sabha Parva, Adhyaya 35, Verse 14

न केवलं वयं कामाच्चेदिराज जनार्दनम्

न संबन्धं पुरस्कृत्य कृतार्थं वा कथंचन

Mahabharata

Sabha Parva, Adhyaya 35, Verse 15

अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम्

यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे

Mahabharata

Sabha Parva, Adhyaya 35, Verse 16

न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः

गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः

Mahabharata

Sabha Parva, Adhyaya 35, Verse 17

ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः

पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ

Mahabharata

Sabha Parva, Adhyaya 35, Verse 18

वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा

नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते

Mahabharata

Sabha Parva, Adhyaya 35, Verse 19

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा

संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते

Mahabharata

Sabha Parva, Adhyaya 35, Verse 20

तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम्

अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ

Mahabharata

Sabha Parva, Adhyaya 35, Verse 21

ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः

सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः

Mahabharata

Sabha Parva, Adhyaya 35, Verse 22

कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः

कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 23

एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः

परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः

Mahabharata

Sabha Parva, Adhyaya 35, Verse 24

बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या

चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 25

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये

दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 26

अयं तु पुरुषो बालः शिशुपालो न बुध्यते

सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते

Mahabharata

Sabha Parva, Adhyaya 35, Verse 27

यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः

स वै पश्येद्यथाधर्मं न तथा चेदिराडयम्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 28

सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु

को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्

Mahabharata

Sabha Parva, Adhyaya 35, Verse 29

अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति

दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति