Sabha Parva, Adhyaya 34, Verse 1
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम्
नायं युक्तः समाचारः पाण्डवेषु महात्मसु
यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः
अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम्
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्
अर्हणामर्हति तथा यथा युष्माभिरर्चितः
अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः
अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्
आचार्यं मन्यसे कृष्णमथ वा कुरुपुंगव
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन
द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया
नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया
अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः
किं राजभिरिहानीतैरवमानाय भारत
वयं तु न भयादस्य कौन्तेयस्य महात्मनः
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात्
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते
किमन्यदवमानाद्धि यदिमं राजसंसदि
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्
को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत्
योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्
कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात्
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः
ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति
अथ वा कृपणैरेतामुपनीतां जनार्दन
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि
अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे
हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने
न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्
अराज्ञो राजवत्पूजा तथा ते मधुसूदन
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम्
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा