Mahabharata

Sabha Parva, Adhyaya 33

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 33, Verse 1

ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह

अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 2

नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः

समासीनाः शुशुभिरे सह राजर्षिभिस्तदा

Mahabharata

Sabha Parva, Adhyaya 33, Verse 3

समेता ब्रह्मभवने देवा देवर्षयो यथा

कर्मान्तरमुपासन्तो जजल्पुरमितौजसः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 4

इदमेवं न चाप्येवमेवमेतन्न चान्यथा

इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 5

कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते

अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 6

तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम्

विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 7

केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः

रेमिरे कथयन्तश्च सर्ववेदविदां वराः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 8

सा वेदिर्वेदसंपन्नैर्देवद्विजमहर्षिभिः

आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला

Mahabharata

Sabha Parva, Adhyaya 33, Verse 9

न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः

अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने

Mahabharata

Sabha Parva, Adhyaya 33, Verse 10

तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम्

तुतोष नारदः पश्यन्धर्मराजस्य धीमतः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 11

अथ चिन्तां समापेदे स मुनिर्मनुजाधिप

नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 12

सस्मार च पुरावृत्तां कथां तां भरतर्षभ

अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 13

देवानां संगमं तं तु विज्ञाय कुरुनन्दन

नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 14

साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः

प्रतिज्ञां पालयन्धीमाञ्जातः परपुरंजयः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 15

संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम्

अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ

Mahabharata

Sabha Parva, Adhyaya 33, Verse 16

इति नारायणः शंभुर्भगवाञ्जगतः प्रभुः

आदिश्य विबुधान्सर्वानजायत यदुक्षये

Mahabharata

Sabha Parva, Adhyaya 33, Verse 17

क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः

परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 18

यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते

सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 19

अहो बत महद्भूतं स्वयंभूर्यदिदं स्वयम्

आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 20

इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित्

हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 21

तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः

महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 22

ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्

क्रियतामर्हणं राज्ञां यथार्हमिति भारत

Mahabharata

Sabha Parva, Adhyaya 33, Verse 23

आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर

स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा

Mahabharata

Sabha Parva, Adhyaya 33, Verse 24

एतानर्हानभिगतानाहुः संवत्सरोषितान्

त इमे कालपूगस्य महतोऽस्मानुपागताः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 25

एषामेकैकशो राजन्नर्घ्यमानीयतामिति

अथ चैषां वरिष्ठाय समर्थायोपनीयताम्

Mahabharata

Sabha Parva, Adhyaya 33, Verse 26

कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन

उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह

Mahabharata

Sabha Parva, Adhyaya 33, Verse 27

ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत

वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि

Mahabharata

Sabha Parva, Adhyaya 33, Verse 28

एष ह्येषां समेतानां तेजोबलपराक्रमैः

मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 29

असूर्यमिव सूर्येण निवातमिव वायुना

भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः

Mahabharata

Sabha Parva, Adhyaya 33, Verse 30

तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्

उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम्