Sabha Parva, Adhyaya 32, Verse 1
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः
अभिवाद्य ततो राजन्निदं वचनमब्रवीत्
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः
अभिवाद्य ततो राजन्निदं वचनमब्रवीत्
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः
इदं वः स्वमहं चैव यदिहास्ति धनं मम
प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः
युयोज ह यथायोगमधिकारेष्वनन्तरम्
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्
राज्ञां तु प्रतिपूजार्थं संजयं संन्ययोजयत्
कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्
तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत्
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित्
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः
सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम्
द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम्
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम्
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन्
कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात्
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम्
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः
लोकराजविमानैश्च ब्राह्मणावसथैः सह
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः
राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः
अशोभत सदो राजन्कौन्तेयस्य महात्मनः
ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत्
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः
रत्नोपहारकर्मण्यो बभूव स समागमः
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः