Sabha Parva, Adhyaya 31, Verse 1
स गत्वा हास्तिनपुरं नकुलः समितिंजयः
भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
स गत्वा हास्तिनपुरं नकुलः समितिंजयः
भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः
संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम्
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत
समुपादाय रत्नानि विविधानि महान्ति च
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः
गान्धारराजः सुबलः शकुनिश्च महाबलः
अचलो वृषकश्चैव कर्णश्च रथिनां वरः
ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा
आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा
कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते
विराटः सह पुत्रैश्च माचेल्लश्च महारथः
राजानो राजपुत्राश्च नानाजनपदेश्वराः
शिशुपालो महावीर्यः सह पुत्रेण भारत
आगच्छत्पाण्डवेयस्य यज्ञं संग्रामदुर्मदः
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च
वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः
एते चान्ये च बहवो राजानो मध्यदेशजाः
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्
ददुस्तेषामावसथान्धर्मराजस्य शासनात्
बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान्
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम्
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान्
सुखारोहणसोपानान्महासनपरिच्छदान्
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः
हंसांशुवर्णसदृशानायोजनसुदर्शनान्
असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः
बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम्
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम्
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः
भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः