Mahabharata

Sabha Parva, Adhyaya 30

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 30, Verse 1

रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्

शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 2

बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्

निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 3

सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक्

विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 4

दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्

राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 5

अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्

सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे

Mahabharata

Sabha Parva, Adhyaya 30, Verse 6

प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्

अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 7

धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान्

कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि

Mahabharata

Sabha Parva, Adhyaya 30, Verse 8

स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः

विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे

Mahabharata

Sabha Parva, Adhyaya 30, Verse 9

सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन्

यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 10

अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः

ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 11

जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह

भूतभव्यभवन्नाथः केशवः केशिसूदनः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 12

प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा

बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 13

उच्चावचमुपादाय धर्मराजाय माधवः

धनौघं पुरुषव्याघ्रो बलेन महता वृतः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 14

तं धनौघमपर्यन्तं रत्नसागरमक्षयम्

नादयन्रथघोषेण प्रविवेश पुरोत्तमम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 15

असूर्यमिव सूर्येण निवातमिव वायुना

कृष्णेन समुपेतेन जहृषे भारतं पुरम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 16

तं मुदाभिसमागम्य सत्कृत्य च यथाविधि

संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 17

धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः

भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 18

त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते

धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 19

सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत

उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव

Mahabharata

Sabha Parva, Adhyaya 30, Verse 20

तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया

अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि

Mahabharata

Sabha Parva, Adhyaya 30, Verse 21

स दीक्षापय गोविन्द त्वमात्मानं महाभुज

त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 22

मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो

अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 23

तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्

त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम्

संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 24

यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते

नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 25

सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम

यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 26

अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह

ईहितुं राजसूयाय साधनान्युपचक्रमे

Mahabharata

Sabha Parva, Adhyaya 30, Verse 27

तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः

सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 28

अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः

तथोपकरणं सर्वं मङ्गलानि च सर्वशः

Mahabharata

Sabha Parva, Adhyaya 30, Verse 29

अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि

समानयन्तु पुरुषा यथायोगं यथाक्रमम्

Mahabharata

Sabha Parva, Adhyaya 30, Verse 30

इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः

अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया