Mahabharata

Sabha Parva, Adhyaya 29

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 29, Verse 1

नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा

वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः

Mahabharata

Sabha Parva, Adhyaya 29, Verse 2

निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम्

उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह

Mahabharata

Sabha Parva, Adhyaya 29, Verse 3

सिंहनादेन महता योधानां गर्जितेन च

रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 4

ततो बहुधनं रम्यं गवाश्वधनधान्यवत्

कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 5

तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः

मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 6

शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः

शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 7

तथा मध्यमिकायांश्च वाटधानान्द्विजानथ

पुनश्च परिवृत्याथ पुष्करारण्यवासिनः

Mahabharata

Sabha Parva, Adhyaya 29, Verse 8

गणानुत्सवसंकेतान्व्यजयत्पुरुषर्षभः

सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः

Mahabharata

Sabha Parva, Adhyaya 29, Verse 9

शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम्

वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः

Mahabharata

Sabha Parva, Adhyaya 29, Verse 10

कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम्

उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम्

द्वारपालं च तरसा वशे चक्रे महाद्युतिः

Mahabharata

Sabha Parva, Adhyaya 29, Verse 11

रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः

तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 29, Verse 12

तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः

स चास्य दशभी राज्यैः प्रतिजग्राह शासनम्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 13

ततः शाकलमभ्येत्य मद्राणां पुटभेदनम्

मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली

Mahabharata

Sabha Parva, Adhyaya 29, Verse 14

स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते

रत्नानि भूरीण्यादाय संप्रतस्थे युधां पतिः

Mahabharata

Sabha Parva, Adhyaya 29, Verse 15

ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान्

पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 16

ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान्

न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 17

करभाणां सहस्राणि कोशं तस्य महात्मनः

ऊहुर्दश महाराज कृच्छ्रादिव महाधनम्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 18

इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम्

ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत्

Mahabharata

Sabha Parva, Adhyaya 29, Verse 19

एवं प्रतीचीं नकुलो दिशं वरुणपालिताम्

विजिग्ये वासुदेवेन निर्जितां भरतर्षभः