Mahabharata

Sabha Parva, Adhyaya 27

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 27, Verse 1

ततः कुमारविषये श्रेणिमन्तमथाजयत्

कोसलाधिपतिं चैव बृहद्बलमरिंदमः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 2

अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम्

अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा

Mahabharata

Sabha Parva, Adhyaya 27, Verse 3

ततो गोपालकच्छं च सोत्तमानपि चोत्तरान्

मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 4

ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम्

सर्वमल्पेन कालेन देशं चक्रे वशे बली

Mahabharata

Sabha Parva, Adhyaya 27, Verse 5

एवं बहुविधान्देशान्विजित्य पुरुषर्षभः

उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम्

पाण्डवः सुमहावीर्यो बलेन बलिनां वरः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 6

स काशिराजं समरे सुबन्धुमनिवर्तिनम्

वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 7

ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्

युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 8

ततो मत्स्यान्महातेजा मलयांश्च महाबलान्

अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 9

निवृत्य च महाबाहुर्मदर्वीकं महीधरम्

सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः

वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात्

Mahabharata

Sabha Parva, Adhyaya 27, Verse 10

भर्गाणामधिपं चैव निषादाधिपतिं तथा

विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून्

Mahabharata

Sabha Parva, Adhyaya 27, Verse 11

ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः

तरसैवाजयद्भीमो नातितीव्रेण कर्मणा

Mahabharata

Sabha Parva, Adhyaya 27, Verse 12

शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः

वैदेहकं च राजानं जनकं जगतीपतिम्

विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा

Mahabharata

Sabha Parva, Adhyaya 27, Verse 13

वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्

किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 14

ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान्

विजित्य युधि कौन्तेयो मागधानुपयाद्बली

Mahabharata

Sabha Parva, Adhyaya 27, Verse 15

दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्

तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत्

Mahabharata

Sabha Parva, Adhyaya 27, Verse 16

जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह

तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली

Mahabharata

Sabha Parva, Adhyaya 27, Verse 17

स कम्पयन्निव महीं बलेन चतुरङ्गिणा

युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना

Mahabharata

Sabha Parva, Adhyaya 27, Verse 18

स कर्णं युधि निर्जित्य वशे कृत्वा च भारत

ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 19

अथ मोदागिरिं चैव राजानं बलवत्तरम्

पाण्डवो बाहुवीर्येण निजघान महामृधे

Mahabharata

Sabha Parva, Adhyaya 27, Verse 20

ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम्

कौशिकीकच्छनिलयं राजानं च महौजसम्

Mahabharata

Sabha Parva, Adhyaya 27, Verse 21

उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ

निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्

Mahabharata

Sabha Parva, Adhyaya 27, Verse 22

समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्

ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा

Mahabharata

Sabha Parva, Adhyaya 27, Verse 23

सुह्मानामधिपं चैव ये च सागरवासिनः

सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः

Mahabharata

Sabha Parva, Adhyaya 27, Verse 24

एवं बहुविधान्देशान्विजित्य पवनात्मजः

वसु तेभ्य उपादाय लौहित्यमगमद्बली

Mahabharata

Sabha Parva, Adhyaya 27, Verse 25

स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः

करमाहारयामास रत्नानि विविधानि च

Mahabharata

Sabha Parva, Adhyaya 27, Verse 26

चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम्

काञ्चनं रजतं वज्रं विद्रुमं च महाधनम्

Mahabharata

Sabha Parva, Adhyaya 27, Verse 27

स कोटिशतसंख्येन धनेन महता तदा

अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम्

Mahabharata

Sabha Parva, Adhyaya 27, Verse 28

इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः

निवेदयामास तदा धर्मराजाय तद्धनम्