Sabha Parva, Adhyaya 26, Verse 1
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति
महता बलचक्रेण परराष्ट्रावमर्दिना
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः
स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत्
पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः
ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः
विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः
तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम्
कृतवान्कर्म भीमेन महद्युद्धं निरायुधम्
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परंतपः
अधिसेनापतिं चक्रे सुधर्माणं महाबलम्
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः
सैन्येन महता राजन्कम्पयन्निव मेदिनीम्
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम्
जिगाय समरे वीरो बलेन बलिनां वरः
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा
पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः
ततो दक्षिणमागम्य पुलिन्दनगरं महत्
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः
शिशुपालं महावीर्यमभ्ययाज्जनमेजय
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्
उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परंतपः
तौ समेत्य महाराज कुरुचेदिवृषौ तदा
उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम्
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम्
स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः
सत्कृतः शिशुपालेन ययौ सबलवाहनः