Sabha Parva, Adhyaya 25, Verse 1
स श्वेतपर्वतं वीरः समतिक्रम्य भारत
देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम्
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
स श्वेतपर्वतं वीरः समतिक्रम्य भारत
देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम्
महता संनिपातेन क्षत्रियान्तकरेण ह
व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत्
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्
पाकशासनिरव्यग्रः सहसैन्यः समासदत्
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्
ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः
सरो मानसमासाद्य हाटकानभितः प्रभुः
गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः
तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान्
लेभे स करमत्यन्तं गन्धर्वनगरात्तदा
उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः
इयेष जेतुं तं देशं पाकशासननन्दनः
तत एनं महाकाया महावीर्या महाबलाः
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन्
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथंचन
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत
इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव
न चापि किंचिज्जेतव्यमर्जुनात्र प्रदृश्यते
उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते
प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किंचन
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्
अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि
तद्ब्रवीहि करिष्यामो वचनात्तव भारत
ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः
न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः
युधिष्ठिराय यत्किंचित्करवन्नः प्रदीयताम्
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम्
एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम्
संग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि
मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः
वृतः सुमहता राजन्बलेन चतुरङ्गिणा
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्