Mahabharata

Sabha Parva, Adhyaya 24

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 24, Verse 1

तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः

प्रययावुत्तरां तस्माद्दिशं धनदपालिताम्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 2

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्

तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 3

विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः

तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 4

तैरेव सहितः सर्वैरनुरज्य च तान्नृपान्

कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 5

मृदङ्गवरनादेन रथनेमिस्वनेन च

हस्तिनां च निनादेन कम्पयन्वसुधामिमाम्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 6

ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा

निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 7

सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः

न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 8

सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः

उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 9

स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ

सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 10

मोदापुरं वामदेवं सुदामानं सुसंकुलम्

कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 11

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्

व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 12

स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत्

बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 13

स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्

अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 14

विजित्य चाहवे शूरान्पार्वतीयान्महारथान्

ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 15

पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः

गणानुत्सवसंकेतानजयत्सप्त पाण्डवः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 16

ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः

व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह

Mahabharata

Sabha Parva, Adhyaya 24, Verse 17

ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये

क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 18

अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः

उरशावासिनं चैव रोचमानं रणेऽजयत्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 19

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्

प्रामथद्बलमास्थाय पाकशासनिराहवे

Mahabharata

Sabha Parva, Adhyaya 24, Verse 20

ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः

सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 21

ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः

महता परिमर्देन वशे चक्रे दुरासदान्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 22

गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः

दरदान्सह काम्बोजैरजयत्पाकशासनिः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 23

प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः

निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 24

लोहान्परमकाम्बोजानृषिकानुत्तरानपि

सहितांस्तान्महाराज व्यजयत्पाकशासनिः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 25

ऋषिकेषु तु संग्रामो बभूवातिभयंकरः

तारकामयसंकाशः परमर्षिकपार्थयोः

Mahabharata

Sabha Parva, Adhyaya 24, Verse 26

स विजित्य ततो राजन्नृषिकान्रणमूर्धनि

शुकोदरसमप्रख्यान्हयानष्टौ समानयत्

मयूरसदृशानन्यानुभयानेव चापरान्

Mahabharata

Sabha Parva, Adhyaya 24, Verse 27

स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्

श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः