Sabha Parva, Adhyaya 23, Verse 1
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम्
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम
विजयाय प्रयास्यामि दिशं धनदरक्षिताम्
तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे
धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ
ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः
दिशं धनपतेरिष्टामजयत्पाकशासनिः
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्
प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित्
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते
यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा
पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन्
धनंजयो महाबाहुर्नातितीव्रेण कर्मणा
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः
सुमण्डलं पापजितं कृतवाननुसैनिकम्
स तेन सहितो राजन्सव्यसाची परंतपः
विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम्
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः
अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत्
स तानपि महेष्वासो विजित्य भरतर्षभ
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत्
तत्र राजा महानासीद्भगदत्तो विशां पते
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः
ततः स दिवसानष्टौ योधयित्वा धनंजयम्
प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः
उपपन्नं महाबाहो त्वयि पाण्डवनन्दन
पाकशासनदायादे वीर्यमाहवशोभिनि
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे
न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि
किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्
भवान्पितृसखा चैव प्रीयमाणो मयापि च
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते