Sabha Parva, Adhyaya 22, Verse 1
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्
बुद्धिमास्थाय विपुलां जरासंधजिघांसया
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्
बुद्धिमास्थाय विपुलां जरासंधजिघांसया
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्
प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्
त्वरयन्पुरुषव्याघ्रो जरासंधवधेप्सया
यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः
बलं भीम जरासंधे दर्शयाशु तदद्य नः
एवमुक्तस्तदा भीमो जरासंधमरिंदमः
उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः
भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ
बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः
अभवत्तुमुलो नादः सर्वप्राणिभयंकरः
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः
भीमसेनस्य नादेन जरासंधस्य चैव ह
किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही
इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात्
ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम्
रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः
जरासंधरथं कृष्णो योजयित्वा पताकिनम्
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्
ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्
अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्
यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः
अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः
शक्रविष्णू हि संग्रामे चेरतुस्तारकामये
रथेन तेन तं कृष्ण उपारुह्य ययौ तदा
तप्तचामीकराभेण किङ्किणीजालमालिना
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना
येन शक्रो दानवानां जघान नवतीर्नव
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत
असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्
क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः
तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः
दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ
आदित्य इव मध्याह्ने सहस्रकिरणावृतः
न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते
दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः
तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम्
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम्
स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः
गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्
पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः