Mahabharata

Sabha Parva, Adhyaya 21

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 21, Verse 1

ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः

उवाच वाग्मी राजानं जरासंधमधोक्षजः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 2

त्रयाणां केन ते राजन्योद्धुं वितरते मनः

अस्मदन्यतमेनेह सज्जीभवतु को युधि

Mahabharata

Sabha Parva, Adhyaya 21, Verse 3

एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः

जरासंधस्ततो राजन्भीमसेनेन मागधः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 4

धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च

उपतस्थे जरासंधं युयुत्सुं वै पुरोहितः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 5

कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना

समनह्यज्जरासंधः क्षत्रधर्ममनुव्रतः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 6

अवमुच्य किरीटं स केशान्समनुमृज्य च

उदतिष्ठज्जरासंधो वेलातिग इवार्णवः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 7

उवाच मतिमान्राजा भीमं भीमपराक्रमम्

भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्

Mahabharata

Sabha Parva, Adhyaya 21, Verse 8

एवमुक्त्वा जरासंधो भीमसेनमरिंदमः

प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 9

ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली

भीमसेनो जरासंधमाससाद युयुत्सया

Mahabharata

Sabha Parva, Adhyaya 21, Verse 10

ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः

वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ

Mahabharata

Sabha Parva, Adhyaya 21, Verse 11

तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा

आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव

Mahabharata

Sabha Parva, Adhyaya 21, Verse 12

उभौ परमसंहृष्टौ बलेनातिबलावुभौ

अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ

Mahabharata

Sabha Parva, Adhyaya 21, Verse 13

तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे

बलिनोः संयुगे राजन्वृत्रवासवयोरिव

Mahabharata

Sabha Parva, Adhyaya 21, Verse 14

प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः

आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 15

ततः शब्देन महता भर्त्सयन्तौ परस्परम्

पाषाणसंघातनिभैः प्रहारैरभिजघ्नतुः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 16

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ

बाहुभिः समसज्जेतामायसैः परिघैरिव

Mahabharata

Sabha Parva, Adhyaya 21, Verse 17

कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि

अनारतं दिवारात्रमविश्रान्तमवर्तत

Mahabharata

Sabha Parva, Adhyaya 21, Verse 18

तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः

चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्

Mahabharata

Sabha Parva, Adhyaya 21, Verse 19

तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः

उवाच भीमकर्माणं भीमं संबोधयन्निव

Mahabharata

Sabha Parva, Adhyaya 21, Verse 20

क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे

पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः

Mahabharata

Sabha Parva, Adhyaya 21, Verse 21

तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः

सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 21, Verse 22

एवमुक्तः स कृष्णेन पाण्डवः परवीरहा

जरासंधस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे

Mahabharata

Sabha Parva, Adhyaya 21, Verse 23

ततस्तमजितं जेतुं जरासंधं वृकोदरः

संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः