Mahabharata

Sabha Parva, Adhyaya 20

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 20, Verse 1

न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत

चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 2

वैकृते चासति कथं मन्यध्वं मामनागसम्

अरिं विब्रूत तद्विप्राः सतां समय एष हि

Mahabharata

Sabha Parva, Adhyaya 20, Verse 3

अथ धर्मोपघाताद्धि मनः समुपतप्यते

योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 4

अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः

वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च

Mahabharata

Sabha Parva, Adhyaya 20, Verse 5

त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम्

अनागसं प्रजानानाः प्रमादादिव जल्पथ

Mahabharata

Sabha Parva, Adhyaya 20, Verse 6

कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः

वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 7

त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः

तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 8

राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम

तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि

Mahabharata

Sabha Parva, Adhyaya 20, Verse 9

अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम्

वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 10

मनुष्याणां समालम्भो न च दृष्टः कदाचन

स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 11

सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति

कोऽन्य एवं यथा हि त्वं जरासंध वृथामतिः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 12

ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः

ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 13

नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत्

मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 14

को हि जानन्नभिजनमात्मनः क्षत्रियो नृप

नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 15

स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः

यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप

Mahabharata

Sabha Parva, Adhyaya 20, Verse 16

स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः

स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 17

एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः

येनासुरान्पराजित्य जगत्पाति शतक्रतुः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 18

स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव

मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 19

मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे

समं तेजस्त्वया चैव केवलं मनुजेश्वर

Mahabharata

Sabha Parva, Adhyaya 20, Verse 20

यावदेव न संबुद्धं तावदेव भवेत्तव

विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते

Mahabharata

Sabha Parva, Adhyaya 20, Verse 21

जहि त्वं सदृशेष्वेव मानं दर्पं च मागध

मा गमः ससुतामात्यः सबलश्च यमक्षयम्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 22

दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः

श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 23

मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः

शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ

Mahabharata

Sabha Parva, Adhyaya 20, Verse 24

त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध

मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 25

नाजितान्वै नरपतीनहमादद्मि कांश्चन

जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 26

क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम्

विक्रम्य वशमानीय कामतो यत्समाचरेत्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 27

देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात्

अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन्

Mahabharata

Sabha Parva, Adhyaya 20, Verse 28

सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः

द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा

Mahabharata

Sabha Parva, Adhyaya 20, Verse 29

एवमुक्त्वा जरासंधः सहदेवाभिषेचनम्

आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः

Mahabharata

Sabha Parva, Adhyaya 20, Verse 30

स तु सेनापती राजा सस्मार भरतर्षभ

कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते