Sabha Parva, Adhyaya 19, Verse 1
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान्
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान्
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः
वैहारो विपुलः शैलो वराहो वृषभस्तथा
तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः
औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः
गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि
भजते मागधं वंशं स नृपाणामनुग्रहात्
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन
वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः
लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः
अपरिहार्या मेघानां मागधेयं मणेः कृते
कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम्
अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते
वयमासादने तस्य दर्पमद्य निहन्म हि
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम्
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम्
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम्
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः
यत्र माषादमृषभमाससाद बृहद्रथः
तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत्
आनह्य चर्मणा तेन स्थापयामास स्वे पुरे
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन्
शिरसीव जिघांसन्तो जरासंधजिघांसवः
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम्
अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम्
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन्
ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा
एतस्मिन्नेव काले तु जरासंधं समर्चयन्
पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः
युयुत्सवः प्रविविशुर्जरासंधेन भारत
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम्
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः
राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः
निवेशनमथाजग्मुर्जरासंधस्य धीमतः
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः
अशोभन्त महाराज बाहवो बाहुशालिनाम्
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान्
व्यूढोरस्कान्मागधानां विस्मयः समजायत
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः
अहंकारेण राजानमुपतस्थुर्महाबलाः
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान्
प्रत्युत्थाय जरासंध उपतस्थे यथाविधि
उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्