Sabha Parva, Adhyaya 18, Verse 1
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ
जरासंधस्य निधने कालोऽयं समुपागतः
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ
जरासंधस्य निधने कालोऽयं समुपागतः
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः
साधयिष्याम तं राजन्वयं त्रय इवाग्नयः
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः
न संदेहो यथा युद्धमेकेनाभ्युपयास्यति
अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः
भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति
अलं तस्य महाबाहुर्भीमसेनो महाबलः
लोकस्य समुदीर्णस्य निधनायान्तको यथा
यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः
भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ
अच्युताच्युत मा मैवं व्याहरामित्रकर्षण
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम्
यथा वदसि गोविन्द सर्वं तदुपपद्यते
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी
निहतश्च जरासंधो मोक्षिताश्च महीक्षितः
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः
क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे
धर्मकामार्थरहितो रोगार्त इव दुर्गतः
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना
नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः
युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम्
अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः
यतो हि निम्नं भवति नयन्तीह ततो जलम्
यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम्
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये
एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम्
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान्
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम्
रविसोमाग्निवपुषां भीममासीत्तदा वपुः
हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ
एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने
धर्मार्थकामकार्याणां कार्याणामिव निग्रहे
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च
गण्डकीयां तथा शोणं सदानीरां तथैव च
एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते
संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम्
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः
कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्