Mahabharata

Sabha Parva, Adhyaya 17

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 17, Verse 1

जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी

तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्

Mahabharata

Sabha Parva, Adhyaya 17, Verse 2

साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप

तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक

Mahabharata

Sabha Parva, Adhyaya 17, Verse 3

संश्लेषिते मया दैवात्कुमारः समपद्यत

तव भाग्यैर्महाराज हेतुमात्रमहं त्विह

Mahabharata

Sabha Parva, Adhyaya 17, Verse 4

एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत

स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 5

तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा

आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम्

Mahabharata

Sabha Parva, Adhyaya 17, Verse 6

तस्य नामाकरोत्तत्र प्रजापतिसमः पिता

जरया संधितो यस्माज्जरासंधस्ततोऽभवत्

Mahabharata

Sabha Parva, Adhyaya 17, Verse 7

सोऽवर्धत महातेजा मगधाधिपतेः सुतः

प्रमाणबलसंपन्नो हुताहुतिरिवानलः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 8

कस्यचित्त्वथ कालस्य पुनरेव महातपाः

मगधानुपचक्राम भगवांश्चण्डकौशिकः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 9

तस्यागमनसंहृष्टः सामात्यः सपुरःसरः

सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 10

पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत

स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत्

Mahabharata

Sabha Parva, Adhyaya 17, Verse 11

प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः

उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना

Mahabharata

Sabha Parva, Adhyaya 17, Verse 12

सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा

पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति

Mahabharata

Sabha Parva, Adhyaya 17, Verse 13

अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः

देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते

न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 14

सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति

सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 15

एनमासाद्य राजानः समृद्धबलवाहनाः

विनाशमुपयास्यन्ति शलभा इव पावकम्

Mahabharata

Sabha Parva, Adhyaya 17, Verse 16

एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति

वर्षास्विवोद्धतजला नदीर्नदनदीपतिः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 17

एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः

शुभाशुभमिव स्फीता सर्वसस्यधरा धरा

Mahabharata

Sabha Parva, Adhyaya 17, Verse 18

अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः

सर्वभूतात्मभूतस्य वायोरिव शरीरिणः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 19

एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्

सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 20

एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन्

विसर्जयामास नृपं बृहद्रथमथारिहन्

Mahabharata

Sabha Parva, Adhyaya 17, Verse 21

प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर्वृतः

अभिषिच्य जरासंधं मगधाधिपतिस्तदा

बृहद्रथो नरपतिः परां निर्वृतिमाययौ

Mahabharata

Sabha Parva, Adhyaya 17, Verse 22

अभिषिक्ते जरासंधे तदा राजा बृहद्रथः

पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत्

Mahabharata

Sabha Parva, Adhyaya 17, Verse 23

तपोवनस्थे पितरि मातृभ्यां सह भारत

जरासंधः स्ववीर्येण पार्थिवानकरोद्वशे

Mahabharata

Sabha Parva, Adhyaya 17, Verse 24

अथ दीर्घस्य कालस्य तपोवनगतो नृपः

सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 25

तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ

मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ

Mahabharata

Sabha Parva, Adhyaya 17, Verse 26

यौ तौ मया ते कथितौ पूर्वमेव महाबलौ

त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः

Mahabharata

Sabha Parva, Adhyaya 17, Verse 27

एवमेष तदा वीर बलिभिः कुकुरान्धकैः

वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः